नित्याप्रकंपाद्भुत-केवलौघा: स्फुरन्मन:पर्यय-शुद्धबोधाः|
दिव्यावधिज्ञान-बलप्रबोधा: स्वस्ति-क्रियासु: परमर्षयो नः ॥1॥


कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोतृ-पदानुसारि।
चतुर्विधं बुद्धिबलं दधाना: स्वस्ति-क्रियासु: परमर्षयो नः ॥2।
संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि।
दिव्यान् मतिज्ञान-बलाद्वहंत: स्वस्तिक्रियासुः परमर्षयो नः॥3॥


प्रज्ञा-प्रधाना: श्रमणा: समृद्धाः प्रत्येकबुद्धा: दशसर्वपूर्वेः।
प्रवादिनोऽष्टांग-निमित्त-विज्ञा: स्वस्ति-क्रियासु: परमर्षयो नः ॥4।।

नभोडगंण-स्वैरविहारिणश्च स्वस्ति-क्रियासु: परमर्षयो नः ॥5॥


अणिम्नि दक्षा: कुशला: महिम्नि, लघिम्नि शक्ता: कृतिनो गरिम्णि।
मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति-क्रियासु: परमर्षयो नः ॥6॥


सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्तर्द्धिमथाप्तिमाप्ताः ।
तथाऽप्रतीचातगुणप्रधाना: स्वस्ति-क्रियासु: परमर्षयो नः ॥7॥


दीप्तं च तप्तं च महोग्रं घोरं तपो घोरपराक्रमस्था: ।
ब्रह्मापर घोरगुणंचरन्तः स्वस्ति-क्रियासु: परमर्षयो नः ॥8।।


आमर्ष सर्वोषधयस्तथाशीर्विषाविषा - दृष्टिविषाविषाश्च।
सखेल-विड्जल्ल-मलौषधीशा: स्वस्ति-क्रियासु; परमर्षयो नः॥9॥


क्षीर स्रवंतोऽत्र घृतं स्रवंत: मधु सवंतोऽप्यमृतं स्रवंतः।
अक्षीणसंवास-महानसाश्च स्वस्ति-क्रियासुः परमर्षयो नः ॥10॥


।। इति परमर्षिस्वस्तिमंगलं-विधान पुष्पांजलिं क्षिपामि।।